नवयुगधर्मस्य तपोवनम्

ऋषिकेशस्थः श्रीरामकृष्णमठः

(रामकृष्णमठः रामकृष्णमिशन् इति संस्थयोः प्रधानकार्यालयभूतस्य बेलुरमठस्य काचन शाखा)

नौघट्टः, मायाकुण्डः(पत्रालयः), देहरादूनः – २४९ २०१

दूरवाणीसंख्या – ९८४९४ ६७२२२, ईमेलसङ्केतः–rishikesh@rkmm.org

नवयुगधर्मस्य तपोवनम्

सनातनैरार्षधर्मैः सुसंस्कृतस्यास्य भारतवर्षस्यास्तिकजनैः अध्यात्मं जिज्ञासुभिः

अनादिकालादारभ्य संसेव्य तपोभिरात्तसंशुद्धिरियम् उत्तरखणडस्य मृत्स्ना। पृथिव्या

मानदण्डायमानोऽत्र हिमवान् दक्षिणामूर्त्तिर्महान् परमार्थप्रवक्तेव तूष्णीम् आविश्वमूलदर्शी

समुस्थितः सन् स्वपादतलमाश्रितानाम् हृद्यैहिकामुष्मिकवैभवेषु नितरां विरक्तिं दर्शनादेव

आसञ्जयन् आसमन्ताद् दरीदृश्यते। हरगौरीपरिष्वङ्गपरिचया प्रकृतिरलौकिकी सर्वतो

विजृम्भते। विशेषतः पूतधाराभिरासेविता परिपावना मन्दाकिनी मन्दं मन्दं भगीरथपदचिह्नानि

पश्यन्ती परोपकारप्रवणा आर्यावर्त्तम् आसेचितुकामा अग्रेसरति देवी। अस्याम्

अनुत्तमस्थल्याम् ऋषिमुनियतिजनपदरजोभिरभिषिक्तप्रवेशोऽयम् ऋषिकेशप्रदेशः साक्षाद्

हृषीकेशस्य विष्णोः परमपदं प्रेप्सूनां नितान्तोपास्यः प्रशोभते। देवभूमिरिति विख्यातस्य

गढवालप्रान्तस्य प्रवेशद्वारमिति प्रसिद्धमस्तीदम् ऋषिकेशाख्यं पुण्यस्थानम्। संन्यासिनाम्

अध्यात्मतत्त्वान्वेषिणाञ्च साधनाक्षेत्रेऽस्मिन् श्रीरामकृष्णशिष्यशिरोमणिः स्वामी विवेकानन्दः

(१८६३१९०२) तस्य सतीर्थ्याश्च बहुदा समागत्य एकान्तवासादीन् पारिव्राज्यधर्मान्

अन्वतिष्ठन्। विवेकानन्दस्वामिनां शिष्येष्वन्यतमः कल्याणानन्दस्वामी (१८७४१९३७)

निजनिवृत्तिं निखिलजगदुपकृतिञ्च प्रयोजनमुद्दिश्य स्वगुरुणा कृतं प्रवृत्तियोगविधानं शिरसा

वहन्नेतद्देशं समेत्यशिवज्ञानेन जीवसेवाइत्यानुपूर्व्या श्रीमुखनिस्सृतं परिशुद्धवेदान्तधर्मं

स्वधर्मसात्कृत्य लोककल्याणकर्मसु नक्तन्दिवं निरतोऽभवत्। अस्मिन् महाक्षेत्रे हीदानीं

श्रीरामकृष्णसारदाविवेकानन्दपरम्परया प्रवर्तितस्य विश्वविश्रुतस्य प्रायोगिकवेदान्तनवधर्मस्य

पौरोहित्यं वहतां संन्यासिनाम् अनतिविस्तृतम् इदमेकं तपोवनं प्रशान्तसुन्दरं राराजते।

विवेकानन्दस्वामिपादैः स्वशिष्यान् प्रति सेवाश्रमप्रतिष्ठायै आदेशः

उत्तरखण्डे तदानीन्तने काले स्थानीयजनानां तीर्थयात्रिणां वा कृते आरोग्यरक्षायै

उल्लेखयोग्या कापि व्यवस्था नासीत्। हिमालये स्वस्य पारिव्राज्यावसरे

श्रीमद्विवेकानन्दस्वामिपादाः ऋषिकेशहरिद्वारादिस्थले आधुनिकविज्ञानाश्रितस्य वैद्यस्य

चिकित्सालयस्य चाभावम्, तद्धेतोर्जनानां दुरवस्थाञ्च प्रत्यक्षमेव अवागच्छन्। आजन्म

परदुःखेष्वसहिष्णु स्वामिपादानां चित्तं रुग्णानां जनानां कृच्छ्ररतानां संन्यासिनाञ्च सङ्कटं

निरीक्ष्यातीव कातरमभूत्। स्वामिपादाः बेलुडमठं प्रतिनिवृत्त्यापि उत्तरखण्डे दीनजनान्

उपाजेकर्तुं किमपि करणीयमिति स्वस्य मनोमुकुरे पूर्वमुदितं महासङ्कल्पं व्यस्मरन्। ते

यथावसरं स्वशिष्यं कल्याणानन्दस्वामिनं सविधमाहूय गुरुवाक्ये बद्धश्रद्धं कार्यदक्षं

परमोदारहृदयं युवसंन्यासिनं तं स्वाभीष्टेऽस्मिन् कर्मणि न्ययोजयन्।

कल्याणानन्दस्वामिना मठस्य प्रतिष्ठापनम्

विवेकानन्दस्वामिनाम् आज्ञामनुसृत्य कल्याणानन्दस्वामी विना विलम्बं हरिद्वारं समेत्य

१९०१तमवर्षस्य जूनमासे भिक्षार्जितान् अर्थान् विनियुज्य भाटकेन गृहीते प्रकोष्ठद्वये

रुग्णसेवाकर्मणां शुभारम्भमकरोत्। विवेकानन्दस्वामिनामेव अपरः शिष्यः स्वरूपानन्दस्वामी

(१८७११९०६) तदानीं कुमायूनप्रान्तस्य मायावत्यां प्रबुद्धभारतपत्रिकायाः

सम्पादनादिकार्यं निर्वहन्नेव कल्याणानन्दस्वामिनः साहाय्यार्थं नैनितालं गत्वा धनसङ्ग्रहणम्

अकरोत्। कल्याणानन्दस्वामी हरिद्वारस्य कङ्खले कार्याणि कल्पयन्नेव ऋषिकेशेऽपि

समानसेवाकार्याणां निपुणतया विस्तारं व्यधात्। १९०२तमे वर्षे श्रीमद्विवेकानन्दस्वामिनां

महासमाधेरनन्तरं तदीयोऽपरः शिष्यो निश्चयानन्दस्वामी (रावोजीमहाराजः। १८६५

१९३४) सतीर्थ्यस्य कार्यभारं लघूकर्तुं हरिद्वारं समागतवान्। कल्याणानन्दस्वामी

सतीर्थ्यमवाप्य नितरां परितुष्टः तं सेवाकार्येषु स्वगुरुणा प्रदत्तमाशीर्वादम् अगणयत्। ताभ्यां

स्वामिभ्यां तदधीनस्थैश्च ऋषिकेशहरिद्वारक्षेत्रयोः कृतानां रुग्णसेवादिकर्मणां प्रतिवेदनानि

१९०१तमवर्षस्य सेप्तम्बरमासाद् आरभ्य प्रबुद्धभारते क्रमशः प्रकाशितानि वयम्

उपलभामहे।

कल्याणानन्दस्वामी निश्चयानन्दस्वामी सेवास्थलेषु विनाभिमानं सर्वविधान्यपि

कार्याणि निरवहताम्। शौचागारशुद्धेः आचण्डीपाठं कर्माणि योगबुद्ध्या सम्पादयतोस्तयोः

प्रसन्नमन्तःकरणं कर्तृत्वबुद्धिं फलाभिसन्धिं वा व्यजानात्। यथाप्राप्तोपासकौ मितसारसेविनौ

गुरुमुखादिष्टम् अक्षरशः पालयन्तौ आदेहपातं संन्यासधर्मम् आचरितवन्तौ। स्वामिनोरनयोः

अश्रुतदृष्टपूर्वं सेवाव्रतं द्विषन्तः केचन तत्रत्याः संन्यासिनोऽपिभङ्गिसाधु” इत्याख्यया तौ

विशेषयन्तो गर्हन्ते स्म। कैलासाश्रमस्य प्रतिष्ठापकपीठाधीशः परिणतप्रज्ञः

श्रीधनराजगिरिस्वामी (१८१११९०१) तु परोपकृतिं कैवल्योपायं मत्वा सङ्कटग्रस्तानुद्दिश्य

विवेकानन्दशिष्याभ्याम् अनिशं क्रियमाणानाम् अक्षुण्णपरिश्रमाणां भूरि साधुवादमकरोत्।

धनराजगिरिस्वामिनो निर्देशेनैव भजनलाललोहियाः, हरसहायमालसुखदेवदासश्चेति

धर्मपरायणौ धनिकौ हरिद्वारे सेवाश्रमस्य निर्माणाय मुक्तहस्तम् अर्थसाहाय्यं कल्पितवन्तौ।

इत्थं कल्याणानन्दस्वामिना हरिद्वारम् ऋषिकेशञ्च केन्द्रीकृत्य प्रतिष्ठापितौ द्वावप्याश्रमौ

क्रमेण बेलुरमठस्य अन्यैरपि संन्यासिभिरागत्य संसेव्य पोषितौ। अनयोराश्रमयोः हरिद्वारस्य

कङ्खले स्थितः सेवाश्रमो मुख्यः सुविशालश्च सन् कल्याणानन्दस्वामिना समारब्धानि

चिकित्सादिकार्याणि अग्रेऽनयत्। अयमाश्रमः सम्प्रति रामकृष्णमिशन्सेवाश्रमः इति नाम्ना

प्रसिद्ध्यति।

ऋषिकेशस्थ आश्रमश्च सङ्घस्य संन्यासिनां ध्यानाध्ययनादिकर्मणाम् उपयोगाय

हरिद्वारादेव संरक्षितः सन् बहुकालं यावद्रामकृष्णकुटीरः” इति नाम्ना अवर्तत। अत्र स्थाने

रामकृष्णसङ्घस्य दशमाध्यक्षाः श्रीमत्स्वामिनः वीरेश्वरानन्दपादाः (१८९२१९८५)

तपोनिरताः कियत्कालं न्यवसन्। गच्छता कालेन बेलुरमठस्य साक्षान्नियन्त्रणस्य अधीनम्

आनीतोऽयमाश्रमःऋषिकेशस्थः श्रीरामकृष्णमठः” (Shri Ramakrishna Math,

Rishikesh) इत्याख्यया साम्प्रतं ज्ञायते। श्रीमद्वीरेश्वरानन्दस्वामिपादानां तपश्चर्यायाः स्थलं

पञ्चवटीति ख्यातं मठपरिसरमध्यस्थं तथैव संरक्षितमस्ति। सन्दर्शकानां श्रद्धालूनां कृते

ध्यानपारायणादिकर्मोचितम् एकं लघु पर्णकुरीरं तत्स्थले निर्मितं सुशोभते। भागीरथीतीरे

संस्थितमिदं शान्तोदारं तपःस्थानम् एतत्संसेविनां वेदान्तधर्मस्य ग्रहणाभ्यासादिप्रयोजकं

श्रद्धैकाग्र्यादिसामर्थ्यं विदधद् चिरं विराजतेतराम्। सङ्घस्य साधनपद्धतिमनुसृत्यैव मठेनानेन

यतीनां दरिद्रनारायणानाञ्च सेवायोगो यथाशक्ति नियतमनुष्ठीयते।

ऋषिकेशस्थस्य मठस्य नित्यनैमित्तिककार्याणि

नित्यपूजा, वेदादिशास्त्रपारायणम्, सायंसन्धायाम् आरात्रिकम्, जपभजनादिकम्,

श्रीश्रीरामकृष्णकथामृतपाठः इत्यादि।

२। एकादश्यां तिथौ श्रीरामनामसङ्कीर्तनम्।

३। श्रीरामनवमी, श्रीकृष्णजन्माष्टमी, गुरुपूर्णिमा इत्याद्यानां तिथीनां यथासम्प्रदायं

कृत्यपालनम्।

४। श्रीभगवतः श्रीरामकृष्णपरमहंसदेवस्य, श्रीमातुः श्रीसारदादेव्याः, स्वामिनः

विवेकानन्दस्य, श्रीरामकृष्णदेवस्य अन्येषां शिष्याणाञ्च आविर्भावोत्सवः।

५। भक्तजनानां कृते साधनाकार्यक्रमाणां समायोजनम्।

६। प्रातःकाले श्रीमद्भगवद्गीताम् अधिकृत्य, सायङ्काले उपनिषदं विषयीकृत्य मठे

व्याख्यानप्रवचनादीनाम् आयोजनम्, मठादन्यत्र आमन्त्रणानुसारम् अध्यात्मविषयेषु

प्रभाषणादिप्रवृत्तिः।

मठस्य सांस्कृतिककार्योद्योगाः

१। ग्रन्थालयःहिन्दी, इङ्ग्लीष्, संस्कृतम्, बाङ्ला, तिमिल्, तेलुगु इत्याद्यासु

विविधभाषासु नानाविषयकैः त्रिंशदधिकसहस्रसंख्यकैः (१०३०) ग्रन्थैः, अपिच काभिश्चित्

कालिकपत्रिकाभिः समलङ्कृतः पाठागारसहितः पुस्तकालयः।

२। शास्त्रप्रचारःश्रीरामकृष्णविवेकानन्दप्रवर्तितस्य सार्वलौकिकस्य वेदान्तशास्त्रार्थस्य

प्रचारः, तत्सम्बद्धसाहित्यस्य प्रदानम्।

३। जिज्ञासूनामर्थे अध्यात्मदेशनम्विविदिषोः अभ्यर्थनानुसारं तदुपकाराय अध्यात्मम्

अधिधर्मञ्च उपदेशनम्।

मठस्य विशेषसेवाकार्याणि

मठे तपोऽध्ययनाद्यर्थं समागतानां स्वामिनां सेवाशुश्रूषादि, अपिच ऋषिकेशे तपोनिरतानाम्

अन्यानां संन्यासिवर्याणाञ्च अन्नदुग्धादिप्रदानेन सेवाकर्म।

२। दरिद्रनारायणेभ्यो बालकेभ्यश्च दुग्धादिपोषकाहारस्य प्रापणम्।

३। शैत्यकाले ईतिषु दुरिताश्वासप्रदानम्।

उपर्युक्तानां सेवादिकर्मणां सुसम्पादनाय सज्जनाः यथाशक्ति साहाय्यमर्पयन्तु। एतदर्थं मठस्य

जालपुटे”Contributions” इति पृथक्स्थानं कल्पितं पश्यन्तु।

॥श्रीरामकृष्णार्पणमस्तु॥

–Contributed by Swami Vedarthanandaji_ RKMVERI_Belur Math

%d bloggers like this: